Shemushi Sanskrit Class 9 Chapter 1 Solutions भारतीवसन्तगीतिः
Shemushi Sanskrit Class 9 Chapter 1 Solutions भारतीवसन्तगीतिः
Shemushi Sanskrit Class 9 Chapter 1 Solutions भारतीवसन्तगीतिः
प्रश्न: 1.
एकपदेन उत्तरं लिखत
(क) कविः कां सम्बोधयति?
(ख) कविः वाणी का वादयितुं प्रार्थयति?
(ग) कीदृशीं वीणां निनादयितुं प्रार्थयति।
(घ) गीति कथं गातुं कथयति?
(ङ) सरसाः रसालाः कदा लसन्ति?
उत्तर:
(क) वाणीं/सरस्वतीम्
(ख) वीणाम्
(ग) नवीनामयी
(घ) मृदुम्
(ङ) वसन्ते
प्रश्न: 2.
पूर्णवाक्येन उत्तरं लिखत
(क) कविः वाणी किं कथयति?
(ख) वसन्ते किं भवति?
(ग) सलिलं तव वीणामाकर्ण्य कथम् उच्चले?
(घ) कविः भगवतीं भारती कस्याः तीरे मधुमाधवीनां नतां पङिक्तम् अवलोक्य वीणां वादयितुं कथयति?
उत्तर:
(क) कविः वाणी नवीनाम् वीणां वादयितुम् ललितनीतिलीनां गीतिं मृदुं च गातुम् कथयति।
(ख) वसन्ते मधुरमञ्जरी-पिञ्जरीभूतमालाः सरसा: रसालाः लसन्ति। ललित-कोकिलाकाकलीनां कलापाः च विलसन्ति।
(ग) सलिलं तव वीणामाकर्ण्य सलीलं (क्रीडायुक्तम्) उच्चलेत्।
(घ) कविः भगवतीं भारती कालिन्दात्मजायाः तीरे मधुमाधवीनां नतां पंक्तिम् अवलोक्य वीणां वादयितुम् कथयति।
प्रश्न: 3.
‘क’ स्तम्भे पदानि, ‘ख’ स्तम्भे तेषां पर्यायपदानि दत्तानि। तानि चित्वा पदानां समक्षे लिखत
‘क’ स्तम्भ — ‘ख’ स्तम्भ
(क) सरस्वती — (1) तीरे
(ख) आम्रम् — (2) अलीनाम्
(ग) पवनः — (3) समीरः
(घ) तटे — (4) वाणी
(ङ) भ्रमराणाम् — (5) रसाल:
उत्तर:
‘क’ स्तम्भ — ‘ख’ स्तम्भ
(क) सरस्वती — वाणी
(ख) आम्रम् — रसालः
(ग) पवनः — समीरः
(घ) तटे — तीरे
(ङ) भ्रमराणाम् — अलीनाम्
प्रश्न: 4.
अधोलिखितानि पदानि प्रयुज्य संस्कृतभाषया वाक्यरचनां कुरुत
(क) निनादय
(ख) मन्दमन्दम्
(ग) मारुतः
(घ) सलिलम्
(ङ) सुमनः
उत्तर:
(क) निनादय- शारदे! मधुराम् वीणां निनादय।
(ख) मन्दमन्दम्- प्रात: मन्दमन्दम् वायुः प्रसरति।
(ग) मारुतः- शुद्धः मारुतः स्वास्थ्यलाभप्रदः भवति।
(घ) सलिलम्- स्वच्छम् सलिलम् पानीयम्।
(ङ) सुमनः- उद्याने मनोहरः सुमनः विकसति।
प्रश्न: 5.
प्रथमश्लोकस्य आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखत
उत्तर:
प्रथमश्लोकस्य आशय-हे सरस्वती! नवीन वीणा बजाओ, सुन्दर नीतियों से युक्त मधुर गीत गाओ।
प्रश्न: 6.
अधोलिखितपदानां विलोमपदानि लिखत
(क) कठोरम् — …………
(ख) कटु — …………
(ग) शीघ्रम् — …………
(घ) प्राचीनम् — …………
(ङ) नीरसः — …………
उत्तर:
(क) कठोरम् — कोमलम्
(ख) कटु — मधुरम्
(ग) शीघ्रम् — शनैः शनैः
(घ) प्राचीनम् — नवीनम्
(ङ) नीरसः — सरसः
- Shemushi Sanskrit Class 9 Chapter 1 Solutions – भारतीवसन्तगीतिः
- Shemushi Sanskrit Class 9 Chapter 2 Solutions – स्वर्णकाकः
- Shemushi Sanskrit Class 9 Chapter 3 Solutions – गोदोहनम्
- Shemushi Sanskrit Class 9 Chapter 4 Solutions – कल्पतरूः
- Shemushi Sanskrit Class 9 Chapter 5 Solutions – सूक्तिमौक्तिकम्
- Shemushi Sanskrit Class 9 Chapter 6 Solutions – भ्रान्तो बालः
- Shemushi Sanskrit Class 9 Chapter 7 Solutions – प्रत्यभिज्ञानम्
- Shemushi Sanskrit Class 9 Chapter 8 Solutions – लौहतुला
- Shemushi Sanskrit Class 9 Chapter 9 Solutions – सिकतासेतुः
- Shemushi Sanskrit Class 9 Chapter 10 Solutions – जटायोः शौर्यम्
- Shemushi Sanskrit Class 9 Chapter 11 Solutions – पर्यावरणम्
- Shemushi Sanskrit Class 9 Chapter 12 Solutions – वाडमनःप्राणस्वरूपम्