/
0 Comments

Shemushi Sanskrit Class 9 Chapter 5 Solutions सूक्तिमौक्तिकम्



Shemushi Sanskrit Class 9 Chapter 5 Solutions सूक्तिमौक्तिकम्

अभ्यासस्य प्रश्नोत्तराणि (पृष्ठ 35-36)

प्रश्न:
1. एकपदेन उत्तरं लिखत
(क) वित्ततः क्षीणः कीदृशः भवति?
(ख) कस्य प्रतिकूलानि कार्याणि परेषां न समाचरेत्?
(ग) कुत्र दरिद्रता न भवेत्?
(घ) वृक्षाः स्वयं कानि न खादन्ति?
(ङ) का पुरा लघ्वी भवति?
उत्तर:
(क) अक्षीणः
(ग) प्रियवाक्यप्रदानेन
(ङ) सज्जनानां मैत्री
(ख) आत्मनः
(घ) फलानि

प्रश्न: 2.
अधोलिखितप्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत
(क) यत्नेन किं रक्षेत् वित्तं वृत्तं वा?
(ख) अस्माभिः (किं न समाचरेत्) कीदृशम् आचरणं न कर्त्तव्यम्?
(ग) जन्तवः केन तुष्यन्ति?
(घ) सज्जनानां मैत्री कीदृशी भवति?
(ङ) सरोवराणां हानिः कदा भवति?
उत्तर:
(क) यत्नेन वृत्तं रक्षेत्।
(ख) आत्मनः प्रतिकूलानि अस्माभिः आचरणं न कर्त्तव्यम्।
(ग) जनाः प्रियवाक्यप्रदानेन तुष्यन्ति।
(घ) सज्जनानां मैत्री पुरा लघ्वी वृद्धिमती च पश्चात् दिनस्य परार्द्धस्य छायेव भवति।
(ङ) मरालैः सह विप्रयोगः (वियोगः) सरोवराणां हानिः भवति।

प्रश्न: 3.
‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे च विशेष्याणि दत्तानि, तानि यथोचितं योजयत
‘क’ स्तम्भः — ‘ख’ स्तम्भः
(क) आस्वाद्यतोयाः — (1) खलानां मैत्री
(ख) गुणयुक्तः — (2) सज्जनानां मैत्री
(ग) दिनस्य पूर्वार्द्धभिन्ना — (3) नद्यः
(घ) दिनस्य परार्द्धभिन्ना — (4) दरिद्रः
उत्तर:
‘क’ स्तम्भः — ‘ख’ स्तम्भः
(क) आस्वाद्यतोयाः — (3) नद्यः
(ख) गुणयुक्तः — (4) दरिद्रः
(ग) दिनस्य पूर्वार्द्धभिन्ना — (1) खलानां मैत्री
(घ) दिनस्य परार्द्धभिन्ना — (2) सज्जनानां मैत्री

प्रश्न: 4.
अधोलिखितयोः श्लोकद्वयोः आशयं हिन्दीभाषया आङ्ग्लभाषया वा लिखत
(क) आरम्भगुर्वी क्षयिणी क्रमेण
लघ्वी पुरा वृद्धिमती च पश्चात्।
दिनस्य पूर्वार्द्धपरार्द्धभिन्ना
छायेव मैत्री खलसज्जनानाम्।।
उत्तर:
(क) दुष्टों की मित्रता आरम्भ में बड़ी और क्रम से क्षीण (कम) होने लगती है। जैसे दिन के पूर्वाद्ध की छाया और सज्जनों की मित्रता दिन के परार्द्ध के समान पहले छोटी और फिर बड़ी होती है।

(ख) प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्माद् तदेव वक्तव्यं वचने का दरिद्रता।।
उत्तर:
(ख) सभी प्राणी प्रिय बोलने से प्रसन्न होते हैं इसलिए प्रिय बोलने में क्या कंजूसी? प्रिय बोलकर सबको खुश रखना चाहिए।

प्रश्नः 5.
अधोलिखितपदेभ्यः भिन्नप्रकृतिकं पदं चित्वा लिखत
(क) वक्तव्यम्, कर्तव्यम्, सर्वस्वम्, हन्तव्यम्।
(ख) यत्नेन, वचने, प्रियवाक्यप्रदानेन, मरालेन।
(ग) श्रूयताम्, अवधार्यताम्, धनवताम्, क्षम्यताम्।
(घ) जन्तवः, नद्यः, विभूतयः, परितः।
उत्तर:
(क) सर्वस्वम्
(ख) वचने
(ग) धनवताम्
(घ) परितः

प्रश्न: 6.
स्थूलपदान्यधिकृत्य प्रश्नवाक्यनिर्माणं कुरुत
(क) वृत्ततः क्षीणः हतः भवति।
(ख) धर्मसर्वस्वं श्रुत्वा अवधार्यताम्।
(ग) वृक्षाः फलं न खादन्ति।
(घ) खलानाम् मैत्री आरम्भगुर्वी भवति।
उत्तर:
(क) कस्मात् क्षीणः हतः भवति?
(ख) किं श्रुत्वा अवधार्यताम्?
(ग) के फलं न खादन्ति?
(घ) केषाम् मैत्री आरम्भगुर्वी भवति?

प्रश्न: 7.
अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत
यथा- सः पाठं पठति। — सः पाठं पठतु।
(क) नद्यः आस्वाद्यतोयाः सन्ति। — …………..
(ख) सः सदैव प्रियवाक्यं वदति। — …………..
(ग) त्वं परेषां प्रतिकूलानि न समाचरसि। — …………..
(घ) ते वृत्तं यत्नेन संरक्षन्ति। — …………..
(ङ) अहं परोपकाराय कार्यं करोमि। — …………..
उत्तर:
(क) नद्यः आस्वाद्यतोयाः — सन्तु।
(ख) सः सदैव प्रियवाक्यं — वदतु।
(ग) त्वं परेषां प्रतिकूलानि न — समाचर।
(घ) ते वृत्तं यत्नेन — संरक्षन्तु।
(ङ) अहं परोपकाराय कार्य — करवाणि।

परियोजनाकार्यम्

(क) परोपकारविषयकं श्लोकद्वयम् अन्विष्य स्मृत्वा च कक्षायां सस्वरं पठ।
(ख) नद्याः एकं सुन्दरं चित्र निर्माय संकलय्य वा वर्णयत यत् तस्याः तीरे मनुष्याः पशवः खगाश्च निर्विघ्नं जलं पिबन्ति।
उत्तर:
(क)
(i) अष्टादशपुराणेषु व्यासस्य वचनद्वयम्
परोपकारः पुण्याय पापाय परपीडनम्।।

(ii) श्रोत्रं श्रुतेनैव न कुण्डलनेन दानेन पाणिर्न तु कङ्कणेन।
विभाति कायः करुणापराणां परोपकारैर्न तु चन्दनेन।।

(ख) नद्याः वर्णनम्
1. नद्यः पर्वतेभ्यः निर्गत्य क्षेत्रेषु आगच्छन्ति।
2. नद्याः बालुकायुक्ततटे हरिताः वृक्षाः भवन्ति।
3. नदीतटे वृक्षाणाम् उपरि विविधाः खगाः वसन्ति।
4. पक्षिणाम् कलरवैः, बालकानां क्रीडाभिः, जनानां वार्तालापैः नदीतटाः गुञ्जायमानाः भवन्ति।
5. तस्याः तीरे मनुष्याः खगाः पशवः च निर्विघ्नं जलं पिबन्ति तुष्यन्ति च।

Class 9 Sanskrit Shemushi Chapter 4 सूक्तिमौक्तिकम् Additional Important Questions and Answers

पठित-अवबोधनम्
I. पठित-सामग्रयाम आधाारतम् अवमान

अधोलिखितानां श्लोकानाम् पठित्वा प्रश्नान् उत्तरत
(क) वृत्तं यत्नेन संरक्षेद् वित्तमेति च याति च।
अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः॥

प्रश्नाः
I. एकपदेन उत्तरत
(i) वित्ततः क्षीणः नरः कीदृशः भवति?
(ii) वृत्ततः क्षीणः कीदृशः मानवः भवति?
उत्तर:
(i) अक्षीणः
(ii) हतः

II. पूर्णवाक्येन उत्तरत
यत्नेन किं रक्षेत्?
उत्तर:
यत्नेन वृत्तं (चरित्र) रक्षेत्।

III. निर्देशानुसारम् शुद्धम् उत्तरम् विकल्पेभ्यः चित्वा लिखत
(i) ‘वित्तम्’ इति पदस्य कः अर्थ:?
(क) चरित्रम्
(ख) धनम्
(ग) वृत्तम्
(घ) हतम्
उत्तर:
(ख) धनम्

(ii) ‘वृत्तं यत्नेन संरक्षेद्’ अत्र क्रियापदम् किम्?
(क) वृत्तं
(ख) यत्नेन
(ग) संरक्षेद्
(घ) रक्षेद्।
उत्तर:
(ग) संरक्षेद्

(iii) ‘अक्षीणो’ इति पदस्य विलोमपदं किम्?
(क) क्षीणः
(ख) वित्ततः
(ग) हतो
(घ) हतः
उत्तर:
(क) क्षीणः

(iv) वृत्ततः …………… एव हतः भवति।’ उचितपदं चित्वा रिक्तपूर्ति कुरुत।
(क) क्षीणः
(ख) अक्षीणः
(ग) यत्नेन
(घ) हतो
उत्तर:
(क) क्षीणः

(ख) पिबन्ति नद्यः स्वयमेव नाम्भः
स्वयं न खादन्ति फलानि वृक्षाः।
नादन्ति सस्यं खलु वारिवाहाः
परोपकाराय सतां विभूतयः॥

प्रश्नाः
I. एकपदेन उत्तरत –
(i) सतां विभूतयः किमर्थं भवन्ति।
(ii) के जलम् न पिबन्ति?
उत्तर:
(i) परोपकाराय
(ii) नद्यः

II. पूर्णवाक्येन उत्तरत
वारिवाहाः किम् न कुर्वन्ति?
उत्तर:
वारिवाहाः सस्यं न अदन्ति।

III. निर्देशानुसारं शुद्धम् अर्थं विकल्पेभ्यः चित्वा लिखत
(i) ‘वृक्षाः’ इति कर्तृपदस्य क्रियापदम् किम्?
(क) पिबन्ति
(ख) खादन्ति
(ग) आदन्ति
(घ) नादन्ति
उत्तर:
(ख) खादन्ति

(ii) ‘मेघाः’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) वारिवाहाः
(ख) विभूतयः
(ग) अम्भः
(घ) नाम्भः
उत्तर:
(क) वारिवाहाः

(iii) ‘वृक्षाः स्वयमेव ………… न खादन्ति।’ उचितपदं चित्वा रिक्तस्थानं पूरयत
(क) पुष्पम्
(ख) जलं
(ग) फलानि
(घ) सस्यं
उत्तर:
(ग) फलानि

(iv) ‘दुर्जनानाम्’ इति पदस्य विपरीतार्थकपदं किम्?
(क) सतां
(ख) विभूतयः
(ग) वारिवाहाः
(घ) सस्यं
उत्तर:
(क) सतां

(ग) आरम्भगुर्वी क्षयिणी क्रमेण
लघ्वी पुरा वृद्धिमती च पश्चात्।
दिनस्य पूर्वार्द्धपरार्द्धभिन्ना
छायेव मैत्री खलसज्जनानाम्॥

प्रश्ना :
I. एकपदेन उत्तरत
(i) केषाम् मैत्री आरम्भगुर्वी भवति?
(ii) केषाम् मैत्री पुरा लघ्वी पश्चात् वृद्धिमती च भवति?
उत्तर:
(i) खलानाम्
(ii) सज्जनानाम्

II. पूर्णवाक्येन उत्तरत
दिनस्य पूर्वार्द्धस्य छायेव केषाम् मैत्री भवति?
उत्तर:
दिनस्य पूर्वार्द्धस्य छायेव मैत्री खलानाम् भवति।

III. निर्देशानुसारम् शुद्धम् उत्तरम् विकल्पेभ्यः चित्वा उत्तर

(i) ‘गुर्वी’ इति पदस्य विलोमपदम् किम्?
(क) लघ्वी
(ख) क्षयिणी
(ग) क्रमेण
(घ) पुरा
उत्तर:
(क) लघ्वी

(ii) ‘क्षयशीला’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) परार्द्ध
(ख) भिन्ना
(ग) क्षयिणी
(घ) लघ्वी
उत्तर:
(ग) क्षयिणी

(iii) ‘खलानाम् मैत्री ……. भवति।’ उचितपदं चित्वा रिक्तस्थानं पूरयत।
(क) आरम्भगुर्वी
(ख) वृद्धिमती
(ग) पूर्वार्द्ध
(घ) पश्चात्
उत्तर:
(क) आरम्भगुर्वी

(iv) ‘लघ्वी पुरा वृद्धिमती च पश्चात्।’ अत्र कति अव्यय-पदानि सन्ति।
(क) एकं
(ख) द्वे
(ग) त्रीणि
(घ) चत्वारि
उत्तर:
(ग) त्रीणि

(घ) गुणा गुणज्ञेषु गुणा भवन्ति ते निर्गुणं प्राप्य भवन्ति दोषाः।
आस्वाद्यतोयाः प्रवहन्ति नद्यः समुद्रमासाद्य भवन्त्यपेयाः॥

प्रश्ना :
I. एकपदेन उत्तरत
(i) केषु गुणाः गुणाः भवन्ति?
(ii) गुणाः निर्गुणम् प्राप्य के भवन्ति?
उत्तर:
(i) गुणज्ञेषु
(ii) दोषाः

II. पूर्णवाक्येन उत्तरत
नद्याः जलम् कथम् अपेयं भवति?
उत्तर:
नद्यः जलम् समुद्रम् आसाद्य अपेयं भवति।

III. निर्देशानुसारं शुद्धम् उत्तरं विकल्पेभ्यः चित्वा लिखत
(i) ‘प्रवहन्ति’ इति क्रियापदस्य कर्तृपदम् किम्?
(क) तोयाः
(ख) नद्यः
(ग) अपेयाः
(घ) समुद्रम्
उत्तर:
(ख) नद्यः

(ii) ‘प्राप्य’ इत्यर्थे किम् पदम् प्रयुक्तम्?
(क) अपेयाः
(ख) भवन्ति
(ग) आसाद्य
(घ) अस्वाद्य
उत्तर:
(ग) आसाद्य

(iii) ‘दोषाः’ इति पदस्य विलोमपदं किम्?
(क) गुणाः
(ख) निगुणं
(ग) गुणः
(घ) गुणज्ञेषु
उत्तर:
(ग) गुणः

(iv) ‘नद्यः’ इति पदस्य विशेषणपदं किम्?
(क) तोयाः
(ख) आस्वाद्यतोयाः
(ग) समुद्रम्
(घ) आस्वाद्य
उत्तर:
(ख) आस्वाद्यतोयाः

II. प्रश्ननिर्माणम्

अधोलिखितेषु वाक्येषु रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत उत्तराणि
(i) वृत्तम् यत्नेन संरक्षेत्।
(ii) सर्वे जन्तवः प्रियवाक्यप्रदानेन तुष्यन्ति।
(ii) नद्यः स्वयमेव जलम् नं पिबन्ति।
(iv) नद्याः जलम् समुद्रम् आसाद्य अपेयं भवति।
(v) सतां विभूतयः परोपकाराय भवन्ति।
(vi) गुणेषु पुरुषैः प्रयत्नः कर्त्तव्यः।
प्रश्ना:
(i) वृत्तम् केन संरक्षेत्?
(ii) के प्रियवाक्यप्रदानेन तुष्यन्ति?
(iii) काः स्वयमेव जलम् न पिबन्ति?
(iv) नद्याः जलम् समुद्रम् आसाद्य कीदृशम् भवति?
(v) केषाम् विभूतयः परोपकाराय भवन्ति?
(vi) केषु पुरुषैः प्रयत्नः कर्त्तव्यः?

अधोलिखितानाम् श्लोकानाम् अन्वयेषु समुचितपदेन रिक्तपूर्ति कुरुत
(क) गुणा गुणज्ञेषु गुणा भवन्ति
ते निर्गुणं प्राप्य भवन्ति दोषाः।
आस्वाद्यतोयाः प्रवहन्ति नद्यः
समुद्रमासाद्य भवन्त्यपेयाः।।
अन्वयः- गुणज्ञेषु गुणाः (i)……………….. भवन्ति, ते (ii)………………… प्राप्य दोषाः भवन्ति। आस्वाद्यतोया: (iii)………………. प्रवहन्ति, समुद्रम् (iv)……………….अपेयाः भवन्ति।
उत्तरम्
गुणज्ञेषु गुणाः (i) गुणाः भवन्ति, ते (ii) निर्गुणं प्राप्य दोषाः भवन्ति। आस्वाद्यतोयाः (iii) नद्यः प्रवहन्ति, समुद्रम् (iv) आसाद्य अपेयाः भवन्ति।

(ख) आरम्भगुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात्।
दिनस्य पूर्वार्द्धपरार्द्धभिन्ना छायेव मैत्री खलसज्जनानाम्।।
अन्वयः- आरंम्भगुर्वी (i)………….. क्षयिणी पुरा (ii)………….. पश्चात् च वृद्धिमती पूर्वार्द्धपरार्द्धभिन्ना (iii)……………….. छायेव खलसज्जनानाम् (iv)……………….
उत्तरम्-
आरम्भगुर्वी (i) क्रमेण क्षयिणी पुरा (ii) लघ्वी पश्चात् च वृद्धिमती पूर्वार्द्धपरार्द्धभिन्ना (iii) दिनस्य छायेव खलसज्जनानाम् (iv) मैत्री।

(ग) यत्रापि कुत्रापि गता भवेयु
हंसा महीमण्डलमण्डनाय।
हानिस्तु तेषां हि सरोवराणां
येषां मरालैः सह विप्रयोगः।।

अन्वयः- महीमण्डलमण्डनाय (i)……………….. यत्रापि (ii)………………. गताः भवेयुः। हि तेषां (iii)……………… तु हानिः, येषां (iv)…………….. सह विप्रयोगः।
उत्तरम् –
महीमण्डलमण्डनाय (i) हंसा यत्रापि (ii) कुत्रापि गताः भवेयुः। हि तेषां (iii) सरोवराणां तु हानि:, येषां (iv) मरालैः सह विप्रयोगः।

(घ) प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्माद् तदेव वक्तव्यं वचने का दरिद्रता।।
अन्वयः- सर्वे (i)……. ……. प्रियवाक्यप्रदानेन (ii)………… तस्माद् तत् (iii) ………..वचने (iv)… दरिद्रता।
उत्तरम्-
सर्वे (i) जन्तवः प्रियवाक्यप्रदानेन (ii) तुष्यन्ति। तस्माद् तत् (iii) एव वक्तव्यं वचने (iv) का दरिद्रता।

III. ‘ख’ भावार्थः

अधोलिखितश्लोकानाम् भावार्थं मञ्जूषातः उचितपदानि चित्वा पूरयत

(क) वृत्तं यत्नेन संरक्षेद् वित्तमेति च याति च।
अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः॥

भावार्थ:-अस्य श्लोकस्य भावः अस्ति यत् धनं तु मानवानाम् जीवने (i) ……. याति वा। मानवः यत्नेन (ii)…………………. रक्षेत्। यतः (iii)…………………” क्षीणोऽपि न क्षीणः। परम् चरित्रेण तु नष्टः एव भवति। (iv)……………..
मञ्जूषा- क्षीणः, वित्ततः, आयाति, स्वाचरणम्
उत्तर:
(क) अस्य श्लोकस्य भावः अस्ति यत् धनं तु मानवानाम् जीवने आयाति याति वा। मानवः यत्नेन स्वाचरणम् रक्षेत्। यतः वित्ततः क्षीणोऽपि न क्षीणः। परम् चरित्रेण क्षीणः तु नष्टः एव भवति।

(ख) पिबन्ति नद्यः स्वयमेव नाम्भः
स्वयं न खादन्ति फलानि वृक्षाः।
नादन्ति सस्यं खल वारिवाहाः
परोपकाराय सतां विभूतयः॥

भावार्थ:-प्रकृतिः अस्मान् शिक्षयति यत् सज्जनानाम् (i) ……….. परेषाम् उपकाराय एव भवन्ति। यथा (ii)………………… स्वयमेव जलं न पिबन्ति। (iii)……………….. स्वफलानि न खादन्ति। मेघाः च नादन्ति। (iv)………….
मञ्जूषा- नद्यः, तरवः, सस्य, समृद्धयः ।
उत्तर:
(ख) प्रकृतिः अस्मान् शिक्षयति यत् सज्जनानाम् समृद्धयः परेषाम् उपकाराय एव भवन्ति। यथा नद्यः स्वयमेव जलं न पिबन्ति। तरवः स्वफलानि न खादन्ति। मेघाः च सस्यं नादन्ति।

(ग) गुणा गुणज्ञेषु गुणा भवन्ति
ते निर्गुणं प्राप्य भवन्ति दोषाः।
आस्वाद्यतोयाः प्रवहन्ति नद्यः ।
समुद्रमासाद्य भवन्त्यपेयाः॥

भावार्थ:-स्वादिष्टजलपूर्णाः (i) ……….. क्षारयुक्ते समुद्रे मिलित्वा (ii) ……….. न भवन्ति। इत्यं (iii)……………. गुणाः गुणाः एव भवन्ति। परम् ते गुणाः एव (iv)………………… प्राप्य दोषाः भवन्ति। अतएव कथ्यते–’संसर्गजाः दोषगुणाः भवन्ति।’
मञ्जूषा- गुणज्ञेषु, निर्गुणम्, पानयोग्याः, नद्यः
उत्तर:
(ग) स्वादिष्टजलपूर्णाः नद्यः क्षारयुक्ते समुद्रे मिलित्वा पानयोग्याः न भवन्ति। इत्थं गुणज्ञेषु गुणाः गुणाः एव भवन्ति। परम् ते गुणाः एव निर्गुणम् प्राप्य दोषाः भवन्ति। अतएव कथ्यते–’संसर्गजाः दोषगुणाः भवन्ति।’

IV. प्रसङ्गानुकूलम् उचितार्थम्

I. अधोलिखितवाक्येषु रेखांकित पदानाम् कृते उचितम् अर्थ चित्वा लिखत
(i) यत्नेन वृत्तम् रक्षेत्।
(क) धनम्
(ख) चरित्रम्
(ग) विकारम्
(घ) अन्नम्
उत्तर:
(ख) चरित्रम्

(ii) नद्यः समुद्रम् आसाद्य अपेयाः भवन्ति?
(क) आगत्य
(ख) अवमत्य
(ग) आच्छाद्य
(घ) प्राप्य
उत्तर:
(घ) प्राप्य

(iii) सतां विभूतयः परोपकाराय भवन्ति।
(क) समृद्धयः
(ख) सुन्दरता
(ग) भूताः
(घ) शरीराणि
उत्तर:
(क) समृद्धयः

(iv) नद्यः स्वयमेव न अम्भः पिबन्ति।
(क) अन्नम्
(ख) शाकं
(ग) यशः
(घ) जलम्
उत्तर:
(घ) जलम्

(v) खलानाम् मैत्री आरम्भगुर्वी भवति।
(क) आदौ दीर्घा
(ख) आरम्भः
(ग) आदौ दीर्घं
(घ) आदौ लघ्वी
उत्तर:
(क) आदौ दीर्घा

V. पर्यायपदानि/विलोमपदानि

प्रश्नः 1.
अधोलिखितपदानां पर्यायपदानि लिखत
वित्तम्, वृत्तम्, मरालः, वारिवाहाः
उत्तर:
वित्तम् — धनम्, ऐश्वर्यः, सम्पदा।
वृत्तम् — चरित्रं, आचरणं, चलनम्।
मरालः — हंसः, चक्रांगः, कलहंस
वारिवाहाः — मेघाः, जलदाः, पयोदाः।

प्रश्नः 2.
अधोलिखितानां पदानां विलोमपदानि मञ्जूषायां वत्तेषु पदेषु चित्वा यथासमक्षं लिखत
प्रतिकूलानि, अपेयाः, परार्द्धः, गुर्वी, सज्जनानाम्
पदानि — विलोमशब्दाः
(क) पेयाः — ……………..
(ख) पूर्वाद्धः — ……………..
(ग) खलानाम् — ……………..
(घ) अनुकूलानि — ……………..
(ङ) लघ्वी — ……………..
उत्तर:
पदानि — विलोमशब्दाः
(क) पेयाः — अपेयाः
(ख) पूर्वाद्धः — परार्द्धः
(ग) खलानाम् — सज्जनानाम्
(घ) अनुकूलानि — प्रतिकूलानि
(ङ) लघ्वी — गुर्वी

📚 All Chapters:

Shemushi Sanskrit Class 9 Chapter 5 Solutions सूक्तिमौक्तिकम् Shemushi Sanskrit Class 9 Chapter 5 Solutions सूक्तिमौक्तिकम् अभ्यासस्य प्रश्न...

No comments: