NCERT Class 8 Sanskrit Chapter 8 Question Answer Solutions पश्यत कोणमैशान्यं भारतस्य मनोहरम्
NCERT Class 8 Sanskrit Chapter 8 Question Answer Solutions पश्यत कोणमैशान्यं भारतस्य मनोहरम् पश्यत कोणमैशान्यं भारतस्य मनोहरम् अरुणाचलप्रदेशः, असमः, मणिपुरं, मेघालय, मिजोरम, नागालैण्डं, त्रिपुरा एवञ्च सिक्किमः इत्येतानि अष्टराज्यानि देशस्य पूर्वोत्तरभागे स्थितानि। एतानि राज्यानि भारतस्य केवलं स्थानविशेषत्वेन न, अपितु सांस्कृतिक-ऐतिहासिक-विविधतायाः कारणेन विशेषमहत्त्वं वहन्ति। एषां प्रदेशानां प्राकृतिकं सौन्दर्यं, समुदायानां विविधता, भौगोलिक-पर्यावरणीयं वैचित्र्यं च देशस्य अन्येभ्यः भागेभ्यः पृथक् अस्ति। पर्वतैः नदीभिः च सुशोभितानि एतानि राज्यानि पूर्वहिमालय-श्रेणिषु पत्काई-नागपर्वत- प्रदेशे च स्थितानि। एतेषु बराक-ब्रह्मपुत्रादि-नद्यः प्रवहन्ति एवञ्च पर्वतश्रेण्यः, पीठस्थलानि, निम्नपर्वताः, उपत्यकाः च अस्मिन् भू-भागे भू-वैविध्यं धारयन्ति । प्राकृतिक-सम्पदाभिः समृद्धः अयं प्रदेशः पूर्व-दक्षिणपूर्व-एशियायाः द्वारम् अस्ति। तानि राज्यानि अष्टभ्रातृभगिन्यः इति नाम्ना प्रसिद्धानि सन्ति । तानि एव ‘अष्टभगिन्यः’ अथवा ‘सप्तभगिन्यः एकः भ्राता च’ इति कथ्यन्ते । अरुणाचल प्रदेश, असम, मणिपुर, मेघालय, ...